|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.214. अध्यायः 214
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
गुरुरुवाच। 12-214-0x(6088)(73681)
प्रवृत्तिलक्षणो धर्मो यथा समुपलभ्यते।
तेषां विज्ञाननिष्ठानामन्यत्तत्वं न रोचते॥ 12-214-1(73682)
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः।
प्रयोजनं महत्त्वात्तु मार्गमिच्छन्ति संस्तुतम्॥ 12-214-2(73683)
`वेदस्य न विदुर्भावं ज्ञानमार्गप्रतिष्ठितम्।'
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम्।
इयं सा बुद्धिरभ्येत्य यथा याति परां गतिम्॥ 12-214-3(73684)
शरीरवानुपादत्ते मोहात्सर्वान्परिग्रहान्।
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः॥ 12-214-4(73685)
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम्।
कर्मणां विवरं कुर्वन्न लोकानाप्नुयाच्छुभान्॥ 12-214-5(73686)
लोहयुक्तं तथा हेम विपक्वं न विराजते।
तथाऽपक्वकषायाख्यं विज्ञानं न प्रकाशते॥ 12-214-6(73687)
`केचिदात्मगुणं प्राप्तास्ते मुक्ताश्चक्रबन्धनात्।
इतरे दुःखसन्द्वन्द्वास्तथा दुःखपरायणाः॥ 12-214-7(73688)
शुकाकर्मानुरूपं ते जायमानाः पुनः पुनः।
क्रोधलोभमदाविष्टा मूढान्तः करणाः सदा॥ 12-214-8(73689)
यथा--- संछाया नास्ति नित्यतया परा।
गुणानेव तथा चिन्त्या सन्त्येति च विदुर्बुधाः॥' 12-214-9(73690)
यश्चाधर्मं चरेल्लोभात्कामक्रोधावनुप्लुवन्।
धर्म्यं पन्थानमुत्क्रम्य सानुबन्धो विनश्यति॥ 12-214-10(73691)
`अचलं ज्ञानमप्राप्य चलचित्तश्चलानियात्।'
शब्दादीन्विषयांस्तस्मान्न संरागादुपप्लवेत्।
क्रोधो हर्षो विषादश्च जायन्ते हि परस्परात्॥ 12-214-11(73692)
`गुणाः कार्याः क्रोधहर्षौ सुखदुःखे प्रियाप्रिये।
द्वन्द्वान्यथैवमादीनि विजयेच्चैव सर्ववित्॥' 12-214-12(73693)
पञ्चभूतात्मके देहे सत्त्वराजसताभसे।
कमभिष्टुवते चायं कं वा क्रोशति किं वदन्॥ 12-214-13(73694)
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः।
नावगच्छन्ति विज्ञानादात्मानं पार्थिवं गुणम्॥ 12-214-14(73695)
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते।
पार्थिवोऽयं तथा देहो मृद्विकारान्न नश्यति॥ 12-214-15(73696)
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः।
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा॥ 12-214-16(73697)
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत्।
ग्राम्यमाहारमादद्यादस्वाद्वपि हि यापनम्॥ 12-214-17(73698)
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः।
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा॥ 12-214-18(73699)
`भक्षणे श्वापदैर्मार्गादिति चारं करोति चेत्।
एवं संसारमार्गेण यात्रार्थं विषयाणि च॥ 12-214-19(73700)
न गच्छेद्भोगविज्ञानादुन्मार्गे पद्यते तदा।
तस्माददुःखतो मार्गमास्थितस्तमनुस्मरेत्॥ 12-214-20(73701)
नानापर्णफला वृक्षा बहवः सन्ति तत्र हि।
भोक्तारो मुनयश्चैव तस्मात्परतरं वनम्॥ 12-214-21(73702)
अनुमानैस्तथाशास्त्रैर्यशसा विक्रमेण च।'
सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च।
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च॥ 12-214-22(73703)
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम्।
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च॥ 12-214-23(73704)
सत्त्वेन रजसा चैव तमसा चैव मोहिताः।
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम्॥ 12-214-24(73705)
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान्।
अज्ञानप्रभवं नित्यमहंकारं परित्यजेत्॥ 12-214-25(73706)
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः।
`देहमूलं विजानीहि नैतानि भगवानतः॥ 12-214-26(73707)
उपायतः प्रवक्ष्यामि तं च मृत्युं दुरासदम्।
त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम्॥ 12-214-27(73708)
यथेह नियतः कालो दर्शयत्यार्तवान्गुणान्।
तद्वद्भतेष्वहंकारं विद्याद्भूतप्रवर्तकम्॥ 12-214-28(73709)
संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम्।
प्रकृतेर्गुणसंजातो महानहंक्रिया ततः॥ 12-214-29(73710)
अहंकारात्पुनः पश्चाद्भूतग्राममुदाहृतम्।
अव्यक्तस्य गुणेभ्यस्तु तद्गुणांश्च निबोध तान्॥ 12-214-30(73711)
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान्।
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान्॥ 12-214-31(73712)
प्रसादो हर्षजा प्रीतिरसंदेहो धृतिः स्मृतिः।
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान्॥ 12-214-32(73713)
`असन्तोषोऽक्षमाऽधैर्यमतृप्तिर्विषयादिषु।
राजसाश्च गुणा ह्येते तत्परं तामसाञ्शृणु॥ 12-214-33(73714)
मोहस्तन्द्री तथा दुःखं निद्राऽऽलस्यं प्रमादता।
विषादी दीर्घसूत्रश्च तत्तामसमुदाहृतम्॥' 12-214-34(73715)
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः।
विषादशोकावरतिर्मानदर्पावनार्यता॥ 12-214-35(73716)
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम्।
विमृशेदात्मसंस्थानमेकैकमनुसंततम्॥ 12-214-36(73717)
`यस्मिन्प्रतिष्ठितं चेदं यस्मिन्सज्ज्ञाननिर्गतिः।
सर्वभूताधिकं नित्यमहंकारं विलोकयेत्॥ 12-214-37(73718)
विलोकमानः स तदा स्वबुद्ध्या सूक्ष्मया पुनः।
तदेव भाति तद्रूपमात्मना यत्सुनिर्मलम्॥' 12-214-38(73719)
शिष्य उवाच। 12-214-39x(6089)
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः
के पुनः पुनरायान्ति के मोहादचला इव॥ 12-214-39(73720)
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः।
`एतन्मे सर्वमाचक्ष्व यथा विद्यामहं विभो।
मह्यं शुश्रूषवे विद्वन्वक्ष्येतद्बुद्धिनिश्चितम्॥ 12-214-40(73721)
शान्तत्वादपरान्ताच्च आरम्भादपि चैकतः।
प्रोक्तो ह्यत्र यथा हेतुरेवमाहुर्मनीषिणः॥ 12-214-41(73722)
गुरुरुवाच।' 12-214-42x(6090)
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते।
विनाशयति संभूतमयस्मयमयो यथा।
तथा कृतात्मा सहजैर्दोषैर्नश्यति राजसैः॥ 12-214-42(73723)
`सहजैरविशुद्धात्मा दोषैर्नश्यति तामसैः।'
राजसं तामसं चैव शुद्धात्मा कालसंभवम्॥ 12-214-43(73724)
`शमयेत्सत्त्वमास्थाय बुद्ध्या केवलया द्विजः।
त्यजेच्च मनसा चेतः शुद्धात्मा बुद्धिमास्थितः' 12-214-44(73725)
तत्सर्वं देहिनां बीजं सत्त्वमात्मवतः समम्।
तस्मादात्मवता वर्ज्यं रजश्च तम एव च॥ 12-214-45(73726)
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात्।
`आहारान्वर्जयेन्नित्यं राजसांस्तामसानपि॥ 12-214-46(73727)
ते ब्रह्म पुनरायान्ति न मोहादचला इव।'
अथवा मन्त्रवद्ब्रूयुर्मांसादीनां यजुष्कृतम्॥ 12-214-47(73728)
स वै हेतुरनादाने शुद्धधर्मानुपालने।
रजसा कामयुक्तानि कार्याण्यपि समाप्नुते॥ 12-214-48(73729)
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते।
तमसा लोभयुक्तानि क्रोधजानि च सेवते।
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः॥ 12-214-49(73730)
सत्वस्थः सात्विकान्भावाञ्शुद्धान्पश्यति संश्रितः।
स देही विमलः श्रीमाञ्श्रद्धाविद्यासमन्वितः॥ ॥ 12-214-50(73731)
इति श्रीमन्महाभारते शान्तिप्रवणि मोक्षधर्मपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः॥ 214॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-214-9 प्रयोजनमत्तत्त्वात्तु इति ट. थ. पाठः॥ 12-214-15 मृद्विकारैर्विलिप्यते इति ध. पाठः॥ 12-214-23 यथावृत्तान्समीक्ष्य विषयात्मकान् इति झ. पाठः॥ 12-214-40 वक्षि ब्रूहि। वच परिभाषण इति धातोर्लोटि मध्यमपुरुषैकवचनम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|